Department of Sanskrit
"भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा" इति भणितिरेव भारतवर्षस्य संस्कृतेराधारस्वरूपा संस्कृतभाषा इति स्थापयति। विश्वस्य सर्वप्राचीनतम: समुपलब्ध: ग्रन्थ: 'ऋग्वेद:' संस्कृतभाषायामेव निबद्धो वर्तते। अस्यामेव भाषायां भारतीयसंस्कृते: ज्ञानविज्ञानस्य च तत्वानि प्राचीनकालादेव सुगुम्फितानि दरीदृश्यन्ते। विश्वगुरो: भारतस्य आर्षपरम्पराया: निदर्शनमपि अस्यां भाषायां निबद्धसाहित्यद्वारा एव कर्तुं शक्यते। वेदा: पुराणानि दर्शनानि श्रीमद्भगवद्गीतोपनिषदादय: सर्वेsपि ज्ञाननिधय: अस्यामेव समुपलभ्यन्ते। अत एवेयं भाषा देवभाषारूपेण विश्वप्रसिद्धा वर्तते। प्राचीनकालादस्या भाषाया प्रासङ्गिकता अक्षुण्णा अस्ति। अस्मिन् AI अर्थात् कृत्रिमबुद्धिमत्ताया वर्तमानयुगेsपीयं भाषा संगणकस्य कृते सर्वाधिकोपयुक्ता भाषारूपेण वरीवर्ति। अस्या: भाषाया: अस्यां निबद्धविषयाणाञ्च प्रचारप्रसाराय शिक्षणाय च अयं महाविद्यालय: स्वकीयस्थापनाकालादेव प्रतिबद्ध: वर्तते। अत्र स्नातकस्नातकोत्तरवर्गयो: अध्यापनं भवति स्म। अधुना केवलं स्नातककक्षा प्रचलति। छात्राणाङ्कृते अध्ययनस्य उत्तमम् वातावरणं वर्तते। विभागस्य संयोजने सस्कृतसंभाषणशिविरम् प्रतिवर्षम् प्रचाल्यते। केन्द्रीयसंस्कृतविश्वविद्यालय:, नवदेहल्या: अनौपचारिक-संस्कृत-अध्ययन-केन्द्रमपि अत्र प्रचलति। यत्र दशमवर्गाधीत: समाजस्य कोपि जन: प्रमाणपत्रीयपाठ्यक्रमम् ( Certificate Course) व्यावहारिकपाठ्यक्रमम् (Diploma Course) च पठितुं शक्नोति।